|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.251. अध्यायः 251
Mahabharata - Adi Parva - Chapter Topics
अग्निना वरुणात् आहृतानां रथादीनां अर्जुनाय दानम्॥ 1 ॥ अग्नेः खाण्डवदाहारम्भः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-251-0x(1323)(10928)
एवमुक्तः स भगवान्धूमकेतुर्हुताशनः।
चिन्तयामास वरुणं लोकपालं दिदृक्षया॥ 1-251-1(10929)
आदित्यमुदके देवं निवसन्तं जलेश्वरम्।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम्॥ 1-251-2(10930)
तमब्रवीद्भमकेतुः प्रतिगृह्य जलेश्वरम्।
चतुर्थं लोकपालानां देवदेवं सनातनम्॥ 1-251-3(10931)
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते।
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम्॥ 1-251-4(10932)
कार्यं च सुमहत्पार्थो गाण्डीवेन करिष्यति।
चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम्॥ 1-251-5(10933)
ददानीत्येव वरुणः पावकं प्रत्यभाषत।
तदद्भुतं महावीर्यं यशःकीर्तिविवर्धनम्॥ 1-251-6(10934)
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च।
सर्वायुधमहामात्रं परसैन्यप्रधर्षणम्॥ 1-251-7(10935)
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्।
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम्॥ 1-251-8(10936)
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः।
प्रादाच्चैव धनूरत्नमक्षय्यौ च महेषुधी॥ 1-251-9(10937)
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम्।
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः॥ 1-251-10(10938)
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे।
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः॥ 1-251-11(10939)
भावुमन्तं महाघोषं सर्वरत्नमनोरमम्।
ससर्ज यं सुतपसा भौमनो भुवनप्रभुः॥ 1-251-12(10940)
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव।
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः॥ 1-251-13(10941)
नवमेघप्रतीकाशं ज्ललन्तमिव च श्रिया।
आश्रितौ तं रथश्रेष्ठं शक्रायुधसमावुभौ॥ 1-251-14(10942)
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा।
तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः॥ 1-251-15(10943)
`हनूमान्नाम तेजस्वी कामरूपी महाबलः।'
दिधक्षन्निव तत्र स्म संस्थितो मूर्ध्न्यशोभत।
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च॥ 1-251-16(10944)
नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति।
स तं नानापताकाभिः शोभितं रथसत्तमम्॥ 1-251-17(10945)
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च।
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रकः॥ 1-251-18(10946)
आरुरोह तदा पार्थो विमानं सुकृती यथा।
तच्च दिव्यं धनुः श्रेष्ठं ब्रह्मणा निर्मितं पुरा॥ 1-251-19(10947)
गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः।
हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान्॥ 1-251-20(10948)
जग्राह बलमास्थाय ज्यया च युयुजे धनुः।
मौर्व्यां तु योज्यमानायां बलिना पाण्डवेन ह॥ 1-251-21(10949)
येऽशृष्वन्कूजितं यत्र तेषां वै व्यथितं मनः।
लब्ध्वा रथं धनुश्चैव तथाऽक्षय्ये महेषुधी॥ 1-251-22(10950)
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि।
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः॥ 1-251-23(10951)
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा।
अब्रवीत्पावकश्चैवमेतेन मधुसूदन॥ 1-251-24(10952)
अमानुषानपि रणे जेष्यसि त्वमसंशयम्।
अनेन तु मनुष्याणां देवानामपि चाहवे॥ 1-251-25(10953)
रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा।
भविष्यसि न सन्देहः प्रवरोऽपि निबर्हणे॥ 1-251-26(10954)
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु।
हत्वाऽप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः॥ 1-251-27(10955)
वैशम्पायन उवाच। 1-251-28x(1324)
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम्।
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं प्रभुः॥ 1-251-28(10956)
ततः पावकमब्रूतां प्रहृष्टावर्जुनाच्युतौ।
कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि॥ 1-251-29(10957)
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः।
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सता॥ 1-251-30(10958)
अर्जुन उवाच। 1-251-31x(1325)
चक्रपाणिर्हृषीकेशो विचरन्युधि वीर्यवान्।
चक्रेण भस्मसात्सर्वं विसृष्टेन तु वीर्यवान्।
त्रिषु लोकेषु तन्नास्ति यन्न कुर्याज्जनार्दनः॥ 1-251-31(10959)
गाण्डीवं धनुरादाय तथाऽक्षय्ये महेषुधी।
अहमप्युत्सहे लोकान्विजेतुं युधि पावक॥ 1-251-32(10960)
सर्वतः परिवार्यैवं दावमेतं महाप्रभो।
कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि॥ 1-251-33(10961)
`यदि खाण्डवमेष्यति प्रमादा-
त्सगणो वा परिरक्षितुं महेन्द्रः।
शरताडितगात्रकुण्डलानां
कदनं द्रक्ष्यति देववाहिनीनाम्॥' 1-251-34(10962)
वैशम्पायन उवाच। 1-251-35x(1326)
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च।
तैजसं रपमास्थाय दावं दग्धुं प्रचक्रमे॥ 1-251-35(10963)
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तथा।
ददाह खाण्डवं दावं युगान्तमिव दर्शयन्॥ 1-251-36(10964)
प्रतिगृह्य समाविश्य तद्वनं भरतर्षभ।
मेघस्तनितनिर्घोषः सर्वभूतान्यकम्पयत्॥ 1-251-37(10965)
दह्यतस्तस्य च बभौ रूपं दावस्य भारत।
मेरोरिव नगेन्द्रस्य कीर्णस्यांशुमतोंशुभिः॥ ॥ 1-251-38(10966)
इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः॥ 251 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-251-2 आदित्यमदितेः पुत्रम्॥ 1-251-7 महामात्रं प्रधानम्॥ 1-251-12 भौमनो विश्वकर्मा॥ 1-251-15 सिंहशार्दूलवद्भयंकरः केतनः कायोयस्य सः॥ 1-251-23 कल्यः समर्थः वज्रं वरत्रा सा नाभौ यस्य तत्॥ 1-251-27 हत्वा हत्वा रिपून्सङ्ख्ये इति घ. पात॥ एकपञ्चाशदधिकद्विशततमोऽध्यायः॥ 251 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|